Shrisukta and laxmisukta (devi sukta Rugved mantra )

shrisukta and laxmisukta in snskrit
shrisukta Image   

Shrisukta (Rugved matra) 

{||श्रीसुक्त || (ऋग्वेद )}

  • श्री सुक्त (shrisukta )हे ऋग्वेदातील(Rugvedmanta) अतिशय सुंदर असे सुक्त( sukta )आहे.  देवीला श्रीसूक्त (devishrisukta ) पठण पूर्वक अभिषेक पुजा(abhishek puja ) करतात.    click here


ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १॥
 तां म आवह जातवेदोलक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्।
श्रियं देवीमुपह्वयेश्रीर्मादेवीर्जुषताम् ॥ ३॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्।
पद्मेस्थितां पद्मवर्णां तामिहोपह्वयेश्रियम् ॥ ४॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥ ५॥
आदित्यवर्णे तपसोऽधिजातोवनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६॥
उपैतुमां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातुमे॥ ७॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्।
अभूतिमसमृद्धिं च सर्वां निर्णुद मेगृहात् ॥ ८॥
गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरिं सर्वभूतानां तामिहोपह्वयेश्रियम् ॥ ९॥
 मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥
कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
 श्रियं वासय मेकुलेमातरं पद्ममालिनीम् ॥ ११॥
आपः सृजन्तुस्निग्धानि चिक्लीत वस मेगृहे।
नि च देवीं मातरं श्रियं वासय मेकुले॥ १२॥
आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्।
 चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १३॥
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १४॥
तां म आवह जातवेदोलक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥
 यः शुचिः प्रयतोभूत्वा जुहुयादाज्य मन्वहम्।                               
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥

Laxmisukta Phalasruti

लक्ष्मिसुक्त (फलश्रुति)

पद्माननेपद्म ऊरू पद्माक्षी पद्मसम्भवे।
 तन्मे भजसि पद्माक्षी येन सौख्यं लभाम्यहम् ॥
अश्वदायी गोदायी धनदायी महाधने।
धनं मे लभतां देवि सर्वकामांश्च देहि मे॥
पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि ।
 विश्वप्रियेविष्णुमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥
पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवेरथम्।
प्रजानां भवसि माता आयुष्मन्तं करोतुमाम् ॥
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रोबृहस्पतिर्वरुणं धनमस्तुमे
वैनतेय सोमं पिब सोमं पिबतुवृत्रहा ।
सोमं धनस्य सोमिनोमह्यं ददातुसोमिनः ॥
न क्रोधोन च मात्सर्यं न लोभोनाशुभा मतिः ॥
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् ॥
सरसिजनिलयेसरोजहस्तेधवलतरांशुक गन्धमाल्यशोभे।
भगवति हरिवल्लभेमनोज्ञेत्रिभुवनभूतिकरिप्रसीद मह्यम् ॥
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्।
लक्ष्मिम प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम् ॥
महालक्ष्मी च विद्महेविष्णुपत्नी च धीमही।
तन्नोलक्ष्मीः प्रचोदयात् ॥
श्रीवर्चस्यमायुष्यमारोग्यमाविधाच्छो भवानं महीयते।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥ सुशान्तीर्भवतु
          
            
           ---------------------------------------  shrisukta (संपर्ण श्रीसूक्त ) --------------------------------------


1 comment:

  1. chanting mahalakshmi stotram daily once has brought up peace in my mind and also gained strength in my business. Thanks for providing it.

    ReplyDelete

Pages